|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.61. अध्यायः 061
Mahabharata - Karna Parva - Chapter Topics
कृष्णेनार्जुनम्प्रति कुरूणां युधिष्ठिरग्रहणोद्यमकथनम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-61-0x(4984)(57999)
तेषां प्रवृत्ते सङ्ग्रामे विपुले शोणितोदके।
रराज लोहितेनोर्वी संसिक्ता बहुधा भृशम्॥ 8-61-1(58000)
ततो रजसि संशान्ते प्रकाशः सर्वतोऽभवत्।
एतस्मिन्नन्तरे पार्थं कृष्णो वचनमब्रवीत्।
दर्शयन्निव कौन्तेयं धर्मराजं युधिष्ठिरम्॥ 8-61-2(58001)
एष पाण्डव ते भ्राता धार्तराष्ट्रैर्महाबलैः।
जिघांसुभिर्महेष्वासैः शीघ्रं पार्थोऽनुसार्यते॥ 8-61-3(58002)
तमन्वगेव पाञ्चालाश्चेदिमात्स्याश्च भारत।
अनुयान्ति महात्मानं परीप्सन्तो महाजवाः॥ 8-61-4(58003)
एष दुर्योधनः पार्थ गजानीकेन दंशितः।
राजा सर्वस्य लोकस्य राजानमनुधावति॥ 8-61-5(58004)
जिघांसुः पुरुषव्याघ्रं भ्रातृभिः सहितो बली।
आशीविषसमस्पर्शैः सर्वायुधविशारदैः॥ 8-61-6(58005)
नदद्भिः सिंहनादांश्च धमद्भिश्चापि वारिजान्।
बलवद्भिर्महेष्वासैर्विधून्वानैर्धनूंषि च॥ 8-61-7(58006)
एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः।
युधिष्ठिरं धार्तराष्ट्रो रत्नोत्तममिवार्थिनः॥ 8-61-8(58007)
पश्य सात्वतभीमाभ्यां निरुद्धा विष्ठिताः पुनः।
जिहीर्षवोऽमृतं दैत्याः शक्राग्निभ्यामिवाहवे॥ 8-61-9(58008)
एते बहुत्वात्त्वरिताः पुनर्गच्छन्ति पाण्डवम्।
समुद्रमिव वार्योघाः प्रावृट्काले महारथाः॥ 8-61-10(58009)
मृत्योर्मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम्।
हुतमग्नौ च कौन्तेयं दुर्योधनवशं गतम्॥ 8-61-11(58010)
यथायुक्तमनीकं हि धार्तराष्ट्रस्य पाण्डव।
नास्य शक्रोऽपि मुच्येत सम्प्राप्तो बाणगोचरम्॥ 8-61-12(58011)
दुर्योधनस्य वीरस्य शरौघाञ्शीघ्रमस्यतः।
सङ्क्रुद्धस्यान्तकस्येव को वेगं संसहेद्रणे॥ 8-61-13(58012)
रसतस्तस्य वीरस्य द्रौणेः शारद्वतस्य च।
कर्णस्य चेषुवेगो वै पर्वतानपि शातयेत्॥ 8-61-14(58013)
कर्णेन च कृतो राजा विमुखोऽद्य तु दृश्यते॥ 8-61-15(58014)
बलवाँल्लुघुहस्तश्च कृती युद्धविशारदः।
राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे।
सहितो धृतराष्ट्रस्य पुत्रैः शूरैर्महाबलैः॥ 8-61-16(58015)
तस्यैभिर्युध्यमानस्य सङ्ग्रामे शंसितात्मनः।
अन्यैरपि च पार्थस्य कृतं कर्म महारथैः॥ 8-61-17(58016)
उपवासकृशो राजा भृशं भरतसत्तमः।
ब्राह्मो बले स्थितो ह्येष न क्षात्रे हि बले विभुः॥ 8-61-18(58017)
कर्णेन चाभियुक्तोऽयं भूपतिः शत्रुतापनः।
संशयं समनुप्राप्तः पाण्डवो वै युधिष्ठिरः॥ 8-61-19(58018)
न जीवति महाराजो मन्ये पार्थ युधिष्ठिरः।
यद्भीमसेनः सहते सिंहनादममर्षणः॥ 8-61-20(58019)
नर्दतां धार्तराष्ट्राणां पुनःपुनररिन्दमः।
धमतां च महाशङ्खान्सङ्ग्रामे जितकाशिनाम्॥ 8-61-21(58020)
युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ।
सञ्चोदयत्यसौ कर्णो धार्तराष्ट्रान्महाबलान्॥ 8-61-22(58021)
स्थूणाकर्णास्त्रजालेन पार्थ पाशुपतेन च।
प्रच्छादयन्ति राजानमनुयान्ति महारथाः॥ ॥ 8-61-23(58022)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकषष्टितमोऽध्यायः॥ 61 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-61-9 जिहीर्षवो युधिष्ठिरं हर्तुमिच्छन्तः॥ 8-61-17 तस्य युधिष्ठिरस्य कर्म कर्तव्यं पराजयाख्यम्। एभिर्दुर्योधनादिभिः कृतं निष्पादितम्॥ 8-61-18 तत्र हेतुः। ब्राह्मे बलं क्षमायाम् क्षात्रे बले निष्ठुरत्वे॥ 8-61-22 हत नाशयतेति कर्णश्चोदयतीति सम्बन्धः॥ 8-61-23 स्थूणाकर्णो गन्धर्वः॥ 8-61-61 एकषष्टितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|